Rasa Vimana: Difference between revisions
| Line 231: | Line 231: | ||
==== Effect of long term consumption of long pepper ==== | ==== Effect of long term consumption of long pepper ==== | ||
पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;- सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति;तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६| | पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;- सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति;तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६| | ||
<div class="mw-collapsible-content"> | <div class="mw-collapsible-content"> | ||
| Line 242: | Line 242: | ||
==== Effect of long term consumption of alkali ==== | ==== Effect of long term consumption of alkali ==== | ||
क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति, स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते| | क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति, स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते| | ||
ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च; तस्मात् क्षारं नात्युपयुञ्जीत||१७|| | ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च; तस्मात् क्षारं नात्युपयुञ्जीत||१७|| | ||
| Line 255: | Line 255: | ||
==== Effect of long term consumption of salt ==== | ==== Effect of long term consumption of salt ==== | ||
लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते| तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्या-भिनिर्वृत्तिकरं शरीरस्य भवति| ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति| तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति| येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्| तस्माल्लवणं नात्युपयुञ्जीत| ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८|| | लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते| तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्या-भिनिर्वृत्तिकरं शरीरस्य भवति| ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति| तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति| येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्| तस्माल्लवणं नात्युपयुञ्जीत| ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८|| | ||
<div class="mw-collapsible-content"> | <div class="mw-collapsible-content"> | ||